|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.133. अध्यायः 133
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति कुमारोत्पत्तिप्रकारस्य देवादिभिस्तस्मै क्रीडनकादिदानस्य तारकासुरवधादेश्च कथनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
उक्ताः पितामहेनेह सुवर्णस्य विधानतः।
विस्तरेण प्रदानस्य ये गुणाः श्रुतिलक्षणाः॥ 13-133-1(86595)
यत्तु कारणमुत्पत्तेः सुवर्णस्य प्रकीर्तितम्।
स कथं तारकः प्राप्तो निधनं तद्ब्रवीहि मे॥ 13-133-2(86596)
उक्तं स दैवतानां हि अवध्य इति पार्थिव।
कथं तस्याभवन्मृत्युर्विस्तरेण प्रकीर्तय॥ 13-133-3(86597)
एतदिच्छाम्यहं श्रोतुं त्वत्तः कुरुकुलोद्वह।
कार्त्स्न्येन तारकवधं परं कौतूहलं हि मे॥ 13-133-4(86598)
भीष्म उवाच। 13-133-5x(7183)
विपन्नकृत्या राजेन्द्र देवता ऋषयस्तथा।
कृत्तिकाश्चोदयामासुरपत्यभरणाय वै॥ 13-133-5(86599)
न देवतानां काचिद्धि समर्था जातवेदसः।
एता हि शक्तास्तं गर्भं सन्धारयितुमोजसा॥ 13-133-6(86600)
षण्णां तासां ततः प्रीतः पावको गर्भधारणात्।
स्वेन तेजोविसर्गेण वीर्येण परमेण च॥ 13-133-7(86601)
तास्तु षट् कृत्तिका गर्भं पुपुषुर्जातवेदसः।
षट्सु वर्त्मसु तेजोऽग्नेः सकलं निहितं प्रभो॥ 13-133-8(86602)
ततस्ता वर्धमानस्य कुमारस्य महात्मनः।
तेजसाऽभिपरीताङ्ग्यो न क्वचिच्छर्म लेभिरे॥ 13-133-9(86603)
ततस्तेजःपरीताङ्ग्यः सर्वाः काल उपस्थिते।
समं गर्भं सुषुविरे कृतिकास्ता नरर्षभ॥ 13-133-10(86604)
ततस्तं ष़डधिष्ठानं गर्भमेकत्वमागतम्।
पृथिवी प्रतिजग्राह कृत्तिकानां समीपतः॥ 13-133-11(86605)
स गर्भो दिव्यसंस्थानो दीप्तिमान्पावकप्रभः।
दिव्यं शरवणं प्राप्य ववृधे प्रियदर्शनः॥ 13-133-12(86606)
ददृशुः कृत्तिकास्तं तु बालमर्कसमद्युतिम्।
जातस्नेहाश्च सौहार्दात्पुपुषुः स्तन्तविस्रवैः॥ 13-133-13(86607)
अभवत्कार्तिकेयः स त्रैलोक्ये सचराचरे।
स्कन्नत्वात्स्कन्दतां प्राप्तो गुहावासाद्गुहोऽभवत्॥ 13-133-14(86608)
ततो देवास्त्रयस्त्रिंशद्दिशश्च सदिगीश्वराः।
रुद्रो धाता च विष्णुश्च यमः पूषाऽर्यमा भगः॥ 13-133-15(86609)
अंशो मित्रश्च साध्याश्च वासवो वसवोऽश्विनौ।
आपो वायुर्नभश्चन्द्रो नक्षत्राणि ग्रहा रविः॥ 13-133-16(86610)
पृथग्भूतानि चान्यानि यानि देवगणानि वै।
आजग्मुस्तेऽद्भुतं द्रष्टुं कुमारं ज्वलनात्मजम्॥ 13-133-17(86611)
ऋषयस्तुष्टुवुश्चैव गन्धर्वाश्च जगुस्तथा।
षडाननं कुमारं तु द्विषडक्षं द्विजप्रियम्॥ 13-133-18(86612)
पीनांसं द्वादशभुजं पावकादित्यवर्चसम्।
शयानं शरगुल्मस्थं दृष्ट्वा देवाः सहर्षिभिः।
लेभिरे परमं हर्षं मेनिरे चासुरं हतम्॥ 13-133-19(86613)
ततो देवाः प्रियाण्यस्य सर्व एव समाहरन्।
क्रीडतः क्रीडनीयानि ददुः पक्षिगणांश्च ह॥ 13-133-20(86614)
सुपर्णोऽस्य ददौ पुत्रं मयूरं चित्रबर्हिणम्।
राक्षसाश्च ददुस्तस्मै वराहमहिषावुभौ॥ 13-133-21(86615)
कुक्कुटं चाग्निसङ्काशं प्रददावरुणः स्वयम्।
चन्द्रमाः प्रददौ मेषमादित्यो रुचिरां प्रभाम्॥ 13-133-22(86616)
गवां माता च गा देवी ददौ शतसहस्रशः।
छागमग्निर्गुणोपेतमिला पुष्पफलं बहु॥ 13-133-23(86617)
सुधन्वा शकटं चैव रथं चाञ्चितकूबरम्।
वरुणो वारुणान्दिव्यान्सगजान्प्रददौ शुभान्॥ 13-133-24(86618)
सिंहान्सुरेन्द्रो व्याघ्रांश्च द्विपानन्यांश्च दंष्ट्रिणः।
श्वापदांश्च बहून्घोराञ्शस्त्राणि विविधानि च॥ 13-133-25(86619)
राक्षसासुरसङ्घाश्च अनुजग्मुस्तमीश्वरम्॥ 13-133-26(86620)
वर्धमानवधोपायं प्रार्थयामास तारकः।
उपायैर्बहुभिर्हन्तुं नाशकच्चापि तं विभुम्॥ 13-133-27(86621)
सैनापत्येन तं देवाः पूजयित्वा गुहालयम्।
शशंसुर्विप्रकारं तं तस्मै तारककारितम्॥ 13-133-28(86622)
स विवृद्धो महावीर्यो देवसेनापतिः प्रभुः।
जघानामोघया शक्त्या दानवं तारकं गुहः॥ 13-133-29(86623)
तेन तस्मिन्कुमारेण क्रीडता निहतेऽसुरे।
सुरेन्द्रः स्थापितो राज्ये देवानां पुनरीश्वरः॥ 13-133-30(86624)
स सेनापतिरेवाथ बभौ स्कन्दः प्रतापवान्।
ईशो गोप्ता च देवानां प्रियकृच्छङ्करस्य च॥ 13-133-31(86625)
हिरण्यमूर्तिर्भगवानेव एव च पावकिः।
सदा कुमारो देवानां सैनापत्यमवाप्तवान्॥ 13-133-32(86626)
तस्मात्सुवर्णं मङ्गल्यं रत्नमक्षय्यमुत्तमम्।
सहजं कार्तिकेयस्य वह्नेस्तेजः परं मतम्॥ 13-133-33(86627)
एवं रामाय कौरव्य वसिष्ठोऽकथयत्पुरा।
तस्मात्सुवर्णदानाय प्रयतस्व नराधिप॥ 13-133-34(86628)
रामः सुवर्णं दत्त्वा हि विमुक्तः सर्वकिल्बिषैः।
त्रिविष्टपे महत्स्थानमवापासुलभं नरैः॥ ॥ 13-133-35(86629)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रयस्त्रिंशदधिकशततमोऽध्यायः॥ 133 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-133-1 श्रुतिर्वेदो लक्षणं ज्ञापकं येषां ते श्रुतिलक्षणाः। श्रुत्युक्ता इत्यर्थः॥ 7-133-5 विपन्नं कृत्यं येषां ते गङ्गया गर्भे त्यक्ते सति नष्टकार्याः॥ 7-133-6 गर्भं सन्धारयितुमित्यपकृष्यते पूर्वोर्धेपि॥ 7-133-7 प्रीतस्ताभिर्गरुडीरूपेण तद्रेतः पीत्वा षोढा गर्भे धृते सतीति शेषः॥ 7-133-8 वर्त्मसु गर्भागमनमार्गेषु योनिष्वित्यर्थः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|